गन्धाल्पबलरागीयम् | Gandalf and the Balrog.

लॉर्ड ऑफ द रिंग्स पिच्चरची जी ट्रिलजी आहे त्यातील पहिला भाग. प्रसंग तोच आपला नेहमीचा: बुढ्ढा गँडाल्फ आणि समोर तो महाकाय बॅलरॉग. बुढ्ढ्याचे काय होणार या विवंचनेतच सगळे होते. गँडाल्फचा हा पैलूच कुणाला ठाऊक नव्हता. तो अचानक असे आपले विश्वरूपदर्शन देईलसे कुणाला वाटले नव्हते.

काही शब्दार्थ अगोदरच दिलेले बरे.

गंधाल्प- गँडाल्फ. सगळीकडे फिरूनही स्वतःच्या अफाट ताकदीचा परिचय न दिल्यामुळे अल्प आहे ज्याचा गंध असा तो.

बलराग- बॅलरॉग.

वामन- बुटका अर्थात ड्वार्फ.

अनल्प – एल्फ. एल्फ लोक हे अमर असतात आणि एकूणच समृद्धीत राहतात म्हणून त्यांना अन् + अल्प असे नाव दिले.

हवित्तक – हॉबिट.

प्रद- फ्रोडो, श्याम- सॅम, पिपिन-पिपिन, मारी-मेरी.

वज्राद- विझार्ड, शिवाय वज्र खाणारा तो वज्राद अर्थात प्रचंड पॉवरफुल.

सरुमान- सारुमान., रघुलास- लेगोलास, गम्बली – गिमली, वरमिहिर – बोरोमीर, अलघूर्ण- आरागोर्न.

मौर्यखनि- माईन्स ऑफ मोरिया. औरग – ऑर्क. कज्जलधूम-khazad-dum.

कथैषा मध्यदेशस्य द्वापरे ह्यघटत्खलु |
मुद्रिकाभञ्जनस्यैषा सा कथा शृणुयु:स्तदा ||१||

पूर्वं हि कथिता सम्यक्कथाया: पूर्वपीठिका |
मुद्रिकाभञ्जनायैव शायरात्ते बहिर्गता: ||२||

के क आसन् चमौ तस्मिन्? तत्र वै सर्ववंशिका: |
पुरुषा: वामनाश्चापि, अनल्पाश्च हवित्तका: ||३||

गन्धाल्पोऽपि तु तत्रासीत्सर्वाणां मार्गदर्शकः |
वज्रादो ज्ञानवॄद्धो सः सरुमानसमः खलु ||४||

प्रद: श्यामः पिपिन् मारी रघुलासश्च गम्बली |
सार्धं च वरमिहिर: अलघूर्णश्च अन्तिमः ||५||

मौर्यखन्यां तु ह्यगमन् निरुपायाच्च ते खलु |
तत्र वामनभूपेन स्वागताकाङ्क्षिणो ह्यपि ||६||

औरगै: किन्तु तद्राज्यं कॄतं नष्टं हि सत्त्वरम् |
वसन्ति स्म पूर्वखन्यौ तेन दुष्टाश्च औरगा: ||७||

बहूँश्चौरगपिशाच्चान् हत्वाऽस्माकं जनास्त्वहो |
अधावन् त्वरया सार्धं गन्तुं खन्या: बहिस्तथा ||८||

तदानीमेकदाऽपश्यन् कोष्ठं गुरुतम़ं जना: |
उच्चै: नैकैरहो स्तम्भै: धृतवान् कोष्ठभार ह ||९||

पुनस्तत्र नवचमू: अरिभि: परिवेष्टितः|
तदानीमेव विचित्रः ध्वनि: गुरुतरोऽभवत् ||१०||

तच्छृत्वा शत्रवो सर्वे ह्यधावन् तेऽचिरात्खलु |
नवचमौ जना: सर्वे क्षणाय वै अमोदयन् ||११||

छाया चाग्नि च इत्येतं सरुमानोऽवदत् पुरा |
गन्धाल्पं तच्च गन्धाल्प: तदानीमस्मरत् तदा ||१२||

“एषः उच्चतमः शत्रु:, इदानीं तु पलायनम् |
इत्येव करणीयं स्यात्” गन्धाल्पश्चावदत्त्विदम् ||१३||

अधावन् त्वरया सर्वे यदैतच्च श्रुतम् तदा |
तदानीमन्तिमे चांशे सेतुरेको हि दृश्यमान् ||१४||

कज्जलधूम चानेन नाम्ना ज्ञात: स सेतु वै |
आक्रम्य सेतुमेनं तु जना: पारं गता: परम् ||१५||

गन्धाल्पः तत्र वै स्थित्वा अपश्यत्स मुहुर्मुहु:|
अचिरात्तत्र चागच्छत् महाशत्रु: निशाचरः ||१६||

बलरागः इति नाम्ना विख्यातः शत्रु स: महान् |
महाकाय: चतुर्बाहु: अग्निमान् धूमवाँश्च सः ||१७||

प्राचीनराक्षसेणाग्निप्रतोदोऽपि तु धार्यते |
प्रतोदनर्तनं दृष्ट्वा मर्त्या: भीता: तु सत्त्वरम् ||१८||

गन्धाल्पो किन्तु तत्रैव सेतोरुपरि वै स्थित: |
“गच्छ सूकर गुंफायां, प्रवेशोऽत्र निषिध्यते” ||१९||

इत्यवदत् भयशून्य: “महावह्नेऽस्मि किङ्करः |
अन्ध:कारबलादत्र न कदा प्रभविष्यसि ||२०||”

तच्छ्रुत्वा बलरागस्तु दिव्यासिमुपयुक्तवान् |
गन्धाल्पोऽपि प्रकाशस्य वलयेन तु वेष्टितः ||२१||

बलरागः हतबल: प्राभवन्नात्र चासिना |
पादाक्रान्तं तदा सेतुं कर्तुं सः आगतोऽग्रतः ||२२||

महाक्रोशेण क्रोधेण गन्धाल्पः जल्पते तथा |
“नैवागच्छ नैवागच्छ गच्छ गच्छ हि पृष्ठत:” ||२३||

तदानीं सेतुभागं च गन्धाल्पस्तु अताडयत् |
सेतुर्नष्टो बलरागस्तेन स: पतितो ह्यधः ||२४||

बलरागप्रतोदेण बद्ध्वा गन्धाल्पमत्र सः |
बलरागो हि अगृह्णात् अधः तेन सह त्वहो ||२५||

तत्पश्चाद्घटना: नैका: अभवन् तास्त्वहम् ननु |
कथयिष्यामि अत्रैव समयेऽन्ये यथामति:||२६||

|| इति श्री मुद्रिकाभारते प्रथमे मुद्रिकानाशकचमूनाम्नि पर्वे मौर्यखन्याध्यायः समाप्तः ||

This entry was posted in कविता-बिविता. Bookmark the permalink.

प्रतिक्रिया व्यक्त करा

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  बदला )

Twitter picture

You are commenting using your Twitter account. Log Out /  बदला )

Facebook photo

You are commenting using your Facebook account. Log Out /  बदला )

Connecting to %s